अथ द्वादशाधिकशततमो ऽध्यायः
atha dvādaśādhikaśatatamo 'dhyāyaḥ
वाराणसीमाहात्म्यम्
vārāṇasīmāhātmyam
अग्निर् उवाच
agnir uvāca
वाराणसी परं तीर्थं गौर्यै प्राह महेश्वरः
vārāṇasī paraṃ tīrthaṃ gauryai prāha maheśvaraḥ
भुक्तिमुक्तिप्रदं पुण्यं वसतां गृणतां हरिं
bhuktimuktipradaṃ puṇyaṃ vasatāṃ gṛṇatāṃ hariṃ
रुद्र उवाच
rudra uvāca
गौरीक्षेत्रं न मुक्तं वै अविमुक्तं ततः स्मृतं
gaurīkṣetraṃ na muktaṃ vai avimuktaṃ tataḥ smṛtaṃ
:न् 1 अन्नदानाद्दिवमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
:n 1 annadānāddivamiti kha.. , ga.. , gha.. , ṅa.. , cha.. , ja.. ca
2 तीर्थं वानरकं परमिति ख.. , ग.. , घ.. , ङ.. च
2 tīrthaṃ vānarakaṃ paramiti kha.. , ga.. , gha.. , ṅa.. ca
3 वाराणसीमिति ख.. , घ.. च
3 vārāṇasīmiti kha.. , gha.. ca
4 वसतां शृणुतां हरिमिति ग.. , घ.. , ङ.. च :प् 377
4 vasatāṃ śṛṇutāṃ harimiti ga.. , gha.. , ṅa.. ca :p 377
जप्तं तप्तं दत्तममविमुक्ते विलाक्षयं
japtaṃ taptaṃ dattamamavimukte vilākṣayaṃ
अश्मना चरणौ हत्वा वसेत्काशीन्न हि त्यजेत्
aśmanā caraṇau hatvā vasetkāśīnna hi tyajet
हरिश् चन्द्रं परं गुह्यं गुह्यमाम्नातकेश्वरं
hariś candraṃ paraṃ guhyaṃ guhyamāmnātakeśvaraṃ
जप्येश्वरं परं गुह्यं गुह्यं श्रीपर्वतं तथा
japyeśvaraṃ paraṃ guhyaṃ guhyaṃ śrīparvataṃ tathā
महालयं परं गुह्यं भृगुश् चण्डेश्वरं तथा
mahālayaṃ paraṃ guhyaṃ bhṛguś caṇḍeśvaraṃ tathā
केदारं परमं गुह्यमष्टौ सन्त्यविमुक्तके
kedāraṃ paramaṃ guhyamaṣṭau santyavimuktake
गुह्यानां परमं गुह्यमविमुक्तं परं मम
guhyānāṃ paramaṃ guhyamavimuktaṃ paraṃ mama
द्वियोजनन्तु पूर्वं स्याद् योजनार्धं तदन्यथा
dviyojanantu pūrvaṃ syād yojanārdhaṃ tadanyathā
वरणा च नदी चासीत् तयोर्मध्ये वाराणसी
varaṇā ca nadī cāsīt tayormadhye vārāṇasī
अत्र स्नानं जपो होमो मरणं देवपूजनं
atra snānaṃ japo homo maraṇaṃ devapūjanaṃ
श्राद्धं दानं निवासश् च यद्यत् स्याद्भुक्तिमुक्तिदं
śrāddhaṃ dānaṃ nivāsaś ca yadyat syādbhuktimuktidaṃ
इत्य् आग्नेये महापुराणे वाराणसीमाहात्म्यं नाम द्वादशाधिकशततमो ऽध्यायः ॥
ity āgneye mahāpurāṇe vārāṇasīmāhātmyaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ ||
