Stored source record
Atharvaveda Śaunaka · Kāṇḍa 6 · Sūkta 2
sukta · sa-Deva
आत्मगोपनम्। १-३ अथर्वा। सोमः, वनस्पतिः। परोष्णिक्। इन्द्रा॑य॒ सोम॑मृत्विजः सु॒नोता च॑ धावत । स्तो॒तुर्यो वचः॑ शृ॒णव॒द्धवं॑ च मे ॥१॥ आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः । विर॑प्शि॒न् विमृधो॑ जहि रक्ष॒स्विनीः॑ ॥२॥ सु॒नोता॑ सोम॒पाव्ने॑ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ । युवा॒ जेतेशा॑नः॒ स पु॑रुष्टु॒तः ॥३॥
