Living Bliss — Awakening Inner Bliss
Hindu Digital Library
ॐ श्री गुरुभ्यो नमःॐ श्री परमात्मने नमः
← Complete corpusअथर्ववेद / AtharvavedaLibrary
04
Stored source record

Atharvaveda Śaunaka · Kāṇḍa 4 · Sūkta 15

sukta · sa-Deva

Database recordOriginal source ↗
संस्कृत पाठ · Sanskrit text
वृष्टिः।
१-१६ अथर्वा। १ दिशः, २-३ वीरुधः, ४ मरुत्पर्जन्यौ, ५-१० मरुतः आपः, ११ प्रजापतिः, स्तनयित्नुः,
१२ वरुणः, १३-१५ मण्डूकाः पितरश्च, १६ वातः। त्रिष्टुप्, १-२, ५ विराड् जगति, ४ विराट् पुरस्ताद्बृहती,
७, १३ अनुष्टुप्, ९ पथ्यापङ्क्तिः, १० भुरिक्, १२ पञ्चपदानुष्टुब्गर्भा भुरिक्, १५ शंकुमत्यनुष्टुप्।
स॒मुत्प॑तन्तु प्र॒दिशो॑ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु ।
म॒ह॒ऋ॒ष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥१॥
समी॑क्षयन्तु तवि॒षाः सु॒दान॑वो॒ ऽपां रसा॒ ओष॑धीभिः सचन्ताम्।
व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग् जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ॥२॥
समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद् वि॑जन्ताम्।
व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॑ पृथ॑ग् जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥३॥
ग॒णास्त्वोप॑ गायन्तु॒ मारु॑ताः पर्जन्य घो॒षिणः॒ पृथ॑क्।
सर्गा॑ व॒र्षस्य॒ वर्ष॑तो॒ वर्ष॑न्तु पृथि॒वीमनु॑ ॥४॥
उदी॑रयत मरुतः समुद्र॒तस्त्वे॒षो अ॒र्को नभ॒ उत् पा॑तयाथ ।
म॒ह॒ऋ॒ष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥५॥
अ॒भि क्र॑न्द स्त॒नया॒र्दयो॑द॒धिं भूमिं॑ पर्जन्य॒ पय॑सा॒ सम॑ङ्धि ।
त्वया॑ सृ॒ष्टं ब॑हु॒लमैतु॑ व॒र्षमा॑शारै॒षी कृ॒शगु॑रे॒त्वस्त॑म्॥६॥
सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त।
म॒रुद्भिः॒ प्रच्यु॑ता मे॒घा वर्ष॑न्तु पृथि॒वीमनु॑ ॥७॥
आशा॑माशां॒ वि द्यो॑ततां॒ वाता॑ वान्तु दि॒शोदि॑शः ।
म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः सं य॑न्तु पृथि॒वीमनु॑ ॥८॥
आपो॑ वि॒द्युद॒भ्रं व॒र्षं सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त।
म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः प्राव॑न्तु पृथि॒वीमनु॑ ॥९॥
अ॒पाम॒ग्निस्त॒नूभिः॑ संविदा॒नो य ओष॑धीनामधि॒पा ब॒भूव॑ ।
स नो॑ व॒र्षं व॑नुतां जा॒तवे॑दाः प्रा॒णं प्र॒जाभ्यो॑ अ॒मृतं॑ दि॒वस्परि॑ ॥१०॥
प्र॒जाप॑तिः सलि॒लादा स॑मुद्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति ।
प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ऽर्वाङे॒तेन॑ स्तनयि॒त्नुनेहि॑ ॥११॥
अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॒ श्वस॑न्तु॒ गर्ग॑रा अ॒पां व॑रु॒णाव॒ नीची॑र॒पः सृ॑ज ।
वद॑न्तु॒ पृश्नि॑बाहवो म॒ण्डूका॒ इरि॒णानु॑ ॥१२॥
सं॒व॒त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑ ।
वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥१३॥
उ॒प॒प्रव॑द मण्डूकि व॒र्षमा व॑द तादुरि ।
मध्ये॑ ह्र॒दस्य॑ प्लवस्व वि॒गृह्य॑ च॒तुरः॑ प॒दः ॥१४॥
खण्व॒खा३इ॒ खैम॒खा३इ॒ मध्ये॑ तदुरि ।
व॒र्षं व॑नुध्वं पितरो म॒रुतां॒ मन॑ इछत ॥१५॥
म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑ ।
त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ॥१६॥
Hindu Digital Library
ॐ श्री गुरुभ्यो नमःॐ श्री परमात्मने नमः