Stored source record
Atharvaveda Śaunaka · Kāṇḍa 2 · Sūkta 19
sukta · sa-Deva
शत्रुनाशनम्। १-५ अथर्वा। अग्निः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा। अग्ने॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ अग्ने॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ अग्ने॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ अग्ने॒ यत् ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ अग्ने॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
