Living Bliss — Awakening Inner Bliss
Hindu Digital Library
ॐ श्री गुरुभ्यो नमःॐ श्री परमात्मने नमः
← Complete corpusअथर्ववेद / AtharvavedaLibrary
04
Stored source record

Atharvaveda Śaunaka · Kāṇḍa 2 · Sūkta 10

sukta · sa-Deva

Database recordOriginal source ↗
संस्कृत पाठ · Sanskrit text
पाशमोचनम्।
१-८ भृग्वङ्गिराः। १-८ द्यावापृथिवी, ब्रह्म, २ अग्निः, आपः, ओषधयः, सोमः, ३ वातः, दिशः,४-८वातपत्नीः, सूर्यः, यक्ष्मं, निर्ऋतिः। १ त्रिष्टुप्, २ सप्तपदाष्टिः, ३-५, ७-८ सप्तपदा धृतिः, ६ सप्तपदात्यष्टिः, ८ (२, ३) द्वौ पादौ उष्णिहौ।
क्षे॒त्रि॒यात् त्वा॒ निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑ पृथि॒वी उ॒भे स्ता॑म्॥१॥
शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु॒ शं सो॑मः स॒हौष॑धीभिः ।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥२॥
शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भवन्तु प्र॒दिश॒श्चत॑स्रः ।
ए॒वाहं त्वां क्षे॑त्रि॒या॑न्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥३॥
इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑ ।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑ त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॑ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥४॥
तासु॑ त्वा॒न्तर्ज॒रस्या द॑धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः ।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥५॥
अमु॑क्था॒ यक्ष्मा॑द् दुरि॒ताद॑व॒द्याद् द्रु॒हः पाशा॒द् ग्राह्या॒श्चोद॑मुक्थाः ।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥६॥
अहा॒ अरा॑ति॒म॑विदः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥७॥
सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मुञ्च॑न्तो असृज॒न्निरेण॑सः ।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥८॥
Hindu Digital Library
ॐ श्री गुरुभ्यो नमःॐ श्री परमात्मने नमः