48 ॥ इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमो ऽध्यायः श्रीगरुडमहापुराणम्- 85 ब्रह्मोवाच । स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च । पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान्
48 // iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 85 brahmovāca / snātvā pretaśilādau tu varuṇāsthāmṛtena ca / piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān
1 ॥ अस्मत्कुले मृता ये च गतिर्येषां न विद्यते । आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः
1 // asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate / āvāhayiṣyetānsarvān darbhapṛṣṭhe tilodakaiḥ
2 ॥ पितवंशे मृता ये च मातृवंशे च ये मृताः । तषामुद्धरणार्थाये इमं पिण्डे ददाम्यहम्
2 // pitavaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ / taṣāmuddharaṇārthāye imaṃ piṇḍe dadāmyaham
3 ॥ मातामहकुले ये च गतिर्येषां न विद्यते । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
3 // mātāmahakule ye ca gatiryeṣāṃ na vidyate / teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
4 ॥ अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः । तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्
4 // ajātadantā ye kecidye ca garbhe prapīḍitāḥ / teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham
5 ॥ बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः । स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते । तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्
5 // bandhuvargāśca ye kecinnāmagotravivarjitāḥ / svagotre paragotre vā gatiryeṣāṃ na vidyate / teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham
6 ॥ उद्बन्धनमृता ये च विषशस्त्रहताश्च ये । आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम्
6 // udbandhanamṛtā ye ca viṣaśastrahatāśca ye / ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham
7 ॥ अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये । दंष्ट्रिभिः शृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम्
7 // agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye / daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham
8 ॥ अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे । विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम्
8 // agnidagdhāśca ye kecinnāgnidagdhāstathāpare / vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham
9 ॥ रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
9 // raurave cāndhatāmistre kālasūtre ca ye gatāḥ / teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
10 ॥ असिपत्रवने घोरे कंभीपाके च ये गताः । तेषामुद्धरणार्थाय इं पिण्डं ददाम्यहम्
10 // asipatravane ghore kaṃbhīpāke ca ye gatāḥ / teṣāmuddharaṇārthāya iṃ piṇḍaṃ dadāmyaham
11 ॥ अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम् । तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्
11 // anyeṣāṃ yātanā sthānāṃ pretalokanivāsinām / teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham
12 ॥ पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः । अथवा वृक्षयोनि स्थास्तेभ्यः पिण्डं ददाम्यहम्
12 // puśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ / athavā vṛkṣayoni sthāstebhyaḥ piṇḍaṃ dadāmyaham
13 ॥ असंख्ययातनासंस्था ये नीता यमशासनैः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
13 // asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ / teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
14 ॥ जात्यन्तरसहस्रेषु भ्रमन्ति स्वेन कर्मणा । मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम्
14 // jātyantarasahasreṣu bhramanti svena karmaṇā / mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham
15 ॥ ये बान्धवाबान्धवा वा ये ऽन्यजन्मनि बान्धवाः । ते सर्वेतृप्तिमायान्तु पिण्डदानेन सर्वदा
15 // ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ / te sarvetṛptimāyāntu piṇḍadānena sarvadā
16 ॥ ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम । ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा
16 // ye kecitpretarūpeṇa vartante pitaro mama / te sarve tṛptimāyāntu piṇḍadānena sarvadā
17 ॥ ये मे पितृकुले जाताः कुले मातुस्तथैव च । गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः
17 // ye me pitṛkule jātāḥ kule mātustathaiva ca / guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ
18 ॥ ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः । क्रियालो पहता ये च जात्यन्धाः पङ्गवस्तथा
18 // ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ / kriyālo pahatā ye ca jātyandhāḥ paṅgavastathā
19 ॥ विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम । तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम्
19 // virūpā āmagarbhāśca jñātājñātāḥ kule mama / teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām
20 ॥ साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा । मय गयां समासाद्य पितॄणां निष्कतिः कृता
20 // sākṣiṇaḥ santu me devā brahmeśānādayastathā / maya gayāṃ samāsādya pitṝṇāṃ niṣkatiḥ kṛtā
21 ॥ आगतो ऽहं गयां देव ! पितृकार्ये गदाधर । तन्मे साक्षी भवत्वद्य अनृणो ऽहमृणत्रयात्
21 // āgato 'haṃ gayāṃ deva ! pitṛkārye gadādhara / tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt
22 ॥ महानदी ब्रह्मसरो ऽक्षयो वटः प्रभासमुद्यन्तमहो? गयाशिरः । सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम्
22 // mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsamudyantamaho? gayāśiraḥ / sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām
