22 ॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनप्रकारो नामैकोनचत्वारिंशो ऽध्यायः श्रीगरुडमहापुराणम्- 40 शङ्कर उवाच । माहेश्वरीं च मे पूजां वद शङ्खगदाधर । यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर
22 // iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 40 śaṅkara uvāca / māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara / yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara
1 ॥ हरिरुवाच । शृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज । आदौ स्नात्वा तथाचम्य ह्यासने चोपविश्य च
1 // hariruvāca / śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja / ādau snātvā tathācamya hyāsane copaviśya ca
2 ॥ न्यासं कृत्वा मण्डले वै पूजयच्चे महेश्वरम् । मन्त्रैरेतैर्महेशान परिवारयुतं हरम्
2 // nyāsaṃ kṛtvā maṇḍale vai pūjayacce maheśvaram / mantrairetairmaheśāna parivārayutaṃ haram
3 ॥ ओं हां शिवासनदेवता आगच्छतेति । अनेनावाहयेद्रुद्र देवता आसनस्य याः
3 // oṃ hāṃ śivāsanadevatā āgacchateti / anenāvāhayedrudra devatā āsanasya yāḥ
4 ॥ ओं हां गणपतये नमः । ओं हां सरस्वत्यै नमः । ओं हां नन्दिने नमः । ओं हां महाकालाय नमः । ओं हां गङ्गायै नमः । ओं हां लक्ष्म्यै नमः । ओं हां महाकलायै नमः । ओं हां अस्त्राय नम इति
4 // oṃ hāṃ gaṇapataye namaḥ / oṃ hāṃ sarasvatyai namaḥ / oṃ hāṃ nandine namaḥ / oṃ hāṃ mahākālāya namaḥ / oṃ hāṃ gaṅgāyai namaḥ / oṃ hāṃ lakṣmyai namaḥ / oṃ hāṃ mahākalāyai namaḥ / oṃ hāṃ astrāya nama iti
5 ॥ एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर । ओं हां ब्रह्मणे वास्त्वधिपतये नमः । ओं हां गुरुभ्यो नमः । ओं हां आधारशक्त्यै नमः । ओं हां अनन्ताय नमः । ओं हां धर्माय नमः । ओं हां ज्ञानाय नमः । ओं हां वैराग्याय नमः । ओं हां ऐश्वर्याय नमः । ओं हां अधर्माय नमः । ओं हां अज्ञानाय नमः । ओं हां अवैराग्याय नमः । ओं हां अनैश्वर्याय नमः । ओं हां उर्ध्वच्छन्दाय नमः । ओं हां अधश्छन्दाय नमः । ओं हां पद्माय नमः । ओं हां कर्णिकायै नमः । ओं हां वामायै नमः । ओं हां ज्येष्ठायै नमः । ओं हां रौद्यै नमः । ओं काल्यै नमः । ओं हां कलविकरण्यै नमः । ओं बलप्रमथिन्यै नमः । ओं हां सर्वभूतदमन्यै नमः । ओं हां मनोन्मन्यै नमः । ओं हां मण्डलत्रितयाय नमः । ओं हां हौं हं शिवमूर्तये नमः । ओं हां विद्याधिपतये नमः । ओं हां हीं हौं शिवाय नमः । ओं हां हृदयाय नमः । ओं शिरसे नमः । ओं हूं शिखायै नमः । ओं हैं कवचाय नमः । ओं हौं नेत्रत्रयाय नमः । ओं हः अस्त्राय नमः । ओं सद्योजाताय नमः
5 // ete dvāre prapūjyā vai snānagandhādibhirhara / oṃ hāṃ brahmaṇe vāstvadhipataye namaḥ / oṃ hāṃ gurubhyo namaḥ / oṃ hāṃ ādhāraśaktyai namaḥ / oṃ hāṃ anantāya namaḥ / oṃ hāṃ dharmāya namaḥ / oṃ hāṃ jñānāya namaḥ / oṃ hāṃ vairāgyāya namaḥ / oṃ hāṃ aiśvaryāya namaḥ / oṃ hāṃ adharmāya namaḥ / oṃ hāṃ ajñānāya namaḥ / oṃ hāṃ avairāgyāya namaḥ / oṃ hāṃ anaiśvaryāya namaḥ / oṃ hāṃ urdhvacchandāya namaḥ / oṃ hāṃ adhaśchandāya namaḥ / oṃ hāṃ padmāya namaḥ / oṃ hāṃ karṇikāyai namaḥ / oṃ hāṃ vāmāyai namaḥ / oṃ hāṃ jyeṣṭhāyai namaḥ / oṃ hāṃ raudyai namaḥ / oṃ kālyai namaḥ / oṃ hāṃ kalavikaraṇyai namaḥ / oṃ balapramathinyai namaḥ / oṃ hāṃ sarvabhūtadamanyai namaḥ / oṃ hāṃ manonmanyai namaḥ / oṃ hāṃ maṇḍalatritayāya namaḥ / oṃ hāṃ hauṃ haṃ śivamūrtaye namaḥ / oṃ hāṃ vidyādhipataye namaḥ / oṃ hāṃ hīṃ hauṃ śivāya namaḥ / oṃ hāṃ hṛdayāya namaḥ / oṃ śirase namaḥ / oṃ hūṃ śikhāyai namaḥ / oṃ haiṃ kavacāya namaḥ / oṃ hauṃ netratrayāya namaḥ / oṃ haḥ astrāya namaḥ / oṃ sadyojātāya namaḥ
6 ॥ ओं हां सिद्ध्यै नमः । ओं हां ऋद्ध्यै नमः । ओं हां विद्युतायै नमः । ओं हां लक्ष्म्यै नमः । ओं हां बोधायै नमः । ओं हां काल्यै नमः । ओं हां स्वधायै नमः । ओं हां प्रभायै नमः
6 // oṃ hāṃ siddhyai namaḥ / oṃ hāṃ ṛddhyai namaḥ / oṃ hāṃ vidyutāyai namaḥ / oṃ hāṃ lakṣmyai namaḥ / oṃ hāṃ bodhāyai namaḥ / oṃ hāṃ kālyai namaḥ / oṃ hāṃ svadhāyai namaḥ / oṃ hāṃ prabhāyai namaḥ
7 ॥ सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः
7 // satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ
8 ॥ ओं हां वामदेवाय नमः । ओं हां रजसे नमः । ओं हां रक्षायै नमः । ओं हां रत्यै नमः । ओं हां कन्यायै नमः । ओं हां कामायै नमः । ओं हां जनन्यै नमः । ओं हां क्रियायै नमः । ओं हां वृद्ध्यै नमः । ओं हां कार्यायै नमः । ओं रा(धा) त्र्यै नमः । ओं हां भ्रामण्यै नमः । ओं हां मोहिन्यै नमः । ओं हां क्ष(त्व)रायै नमः । वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज
8 // oṃ hāṃ vāmadevāya namaḥ / oṃ hāṃ rajase namaḥ / oṃ hāṃ rakṣāyai namaḥ / oṃ hāṃ ratyai namaḥ / oṃ hāṃ kanyāyai namaḥ / oṃ hāṃ kāmāyai namaḥ / oṃ hāṃ jananyai namaḥ / oṃ hāṃ kriyāyai namaḥ / oṃ hāṃ vṛddhyai namaḥ / oṃ hāṃ kāryāyai namaḥ / oṃ rā(dhā) tryai namaḥ / oṃ hāṃ bhrāmaṇyai namaḥ / oṃ hāṃ mohinyai namaḥ / oṃ hāṃ kṣa(tva)rāyai namaḥ / vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja
9 ॥ ओं हां तत्पुरुषाय नमः । ओं हां निवृत्त्यै नमः । ओं हां प्रतिष्ठायै नमः । ओं हां विद्यायै नमः । ओं हां शान्त्यै नमः । ज्ञेयास्तत्पुरुषस्यैव चतस्रो वृषभध्वज
9 // oṃ hāṃ tatpuruṣāya namaḥ / oṃ hāṃ nivṛttyai namaḥ / oṃ hāṃ pratiṣṭhāyai namaḥ / oṃ hāṃ vidyāyai namaḥ / oṃ hāṃ śāntyai namaḥ / jñeyāstatpuruṣasyaiva catasro vṛṣabhadhvaja
10 ॥ ओं हां तृष्णायै नमः । कलाषट्कं ह्यखोरस्य विज्ञेयं भैरवं हर
10 // oṃ hāṃ tṛṣṇāyai namaḥ / kalāṣaṭkaṃ hyakhorasya vijñeyaṃ bhairavaṃ hara
11 ॥ ओं हां ईशानाय नमः । ओं हां समित्यै नमः । ओं हां अङ्गदायै नमः । ओं हां कृष्णायै नमः । ओं हां मरीच्यै नमः । ओं हां ज्वालायै नमः । ईशानस्य कलाः पञ्च जानीहि वृषभध्वज
11 // oṃ hāṃ īśānāya namaḥ / oṃ hāṃ samityai namaḥ / oṃ hāṃ aṅgadāyai namaḥ / oṃ hāṃ kṛṣṇāyai namaḥ / oṃ hāṃ marīcyai namaḥ / oṃ hāṃ jvālāyai namaḥ / īśānasya kalāḥ pañca jānīhi vṛṣabhadhvaja
12 ॥ ओं हां शिवपरिवारेभ्यो नमः । ओं हां इन्द्राय सुराधिपतये नमः । ओं हां अग्नये तेजो ऽधिपतये नमः । ओं हां यमाय प्रेताधिपतये नमः । ओं हां निरृतये रक्षो ऽधिपतये नमः । ओं हां वरुणाय जलाधिपतये नमः । ओं हां वायवे प्राणाधिपतये नमः । ओं हां सोमाय नेत्राधिपतये नमः । ओं हां ईशानाय सर्वविद्याधिपतये नमः । ओं हां अनन्ताय नागाधिपतये नमः । ओं हां ब्रह्मणे सर्वलोकाधिपतये नमः । ओं हां धूलिचण्डेश्वराय नमः
12 // oṃ hāṃ śivaparivārebhyo namaḥ / oṃ hāṃ indrāya surādhipataye namaḥ / oṃ hāṃ agnaye tejo 'dhipataye namaḥ / oṃ hāṃ yamāya pretādhipataye namaḥ / oṃ hāṃ nirṛtaye rakṣo 'dhipataye namaḥ / oṃ hāṃ varuṇāya jalādhipataye namaḥ / oṃ hāṃ vāyave prāṇādhipataye namaḥ / oṃ hāṃ somāya netrādhipataye namaḥ / oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ / oṃ hāṃ anantāya nāgādhipataye namaḥ / oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ / oṃ hāṃ dhūlicaṇḍeśvarāya namaḥ
13 ॥ आवाहनं स्थापनं सन्निधानं च शङ्कर । सन्निरोधं तथा कुर्यात्सकलीकरणं तथा
13 // āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara / sannirodhaṃ tathā kuryātsakalīkaraṇaṃ tathā
14 ॥ तत्त्वन्यासं च मुद्राया दर्शनं द्यानमेव च । पाद्यमाचमनं ह्यर्घ्यं पुष्पाण्यभ्यङ्गदानकम्
14 // tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca / pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam
15 ॥ तत उद्वर्तनं स्नानं सुगन्धं चानुलेपनम् । वस्त्रालं कारभोगांश्च ह्यङ्गन्यासं च धूपकम्
15 // tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam / vastrālaṃ kārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam
16 ॥ दीपं नैवेद्यदानं च हस्तोद्वर्तनमेव च । पाद्यार्घ्याचमनं गन्धं ताम्बूलं गीतवादनम्
16 // dīpaṃ naivedyadānaṃ ca hastodvartanameva ca / pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam
17 ॥ नृत्यं छत्रा दिकरणं मुद्राणां दर्शनं तता । रूपं ध्यानं जपञ्चाथ एकवद्भाव एव च
17 // nṛtyaṃ chatrā dikaraṇaṃ mudrāṇāṃ darśanaṃ tatā / rūpaṃ dhyānaṃ japañcātha ekavadbhāva eva ca
18 ॥ मूलमन्त्रेण वै कुर्याज्जपपूजासमर्पणम् । माहेशी कथिता पूजा रुद्र पापविनासिनी
18 // mūlamantreṇa vai kuryājjapapūjāsamarpaṇam / māheśī kathitā pūjā rudra pāpavināsinī
